||Sundarakanda ||

|| Sarga 66||( Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकाण्ड.
अथ षट्षष्टितमस्सर्गः॥

एवमुक्तो हनुमता रामो दशरथात्मजः।
तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः॥1||

तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः।
नेत्राभ्यां अश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत्॥2||

यथैव धेनुः स्रवति स्नेहात् वत्सस्य वत्सला।
तथा ममापि हृदयं मणिरत्नस्य दर्शनात्॥3||

मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे।
वधूकाले यथाबद्धं अधिकं मूर्ध्नि शोभते ॥4||

अयं हि जलसंभूतो मणि सज्जनपूजितः।
यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता॥5||

इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम्।
अद्याsस्म्यवगतः सौम्य वैदेहस्य तथा विभोः॥6||

अयं हि शोभते तस्याः प्रियया मूर्ध्नि मे मणिः।
अस्याद्य दर्शने नाहं प्राप्तां तां इव चिंतये॥7||

किमहा सीता वैदेही ब्रूहि सौम्य पुनः पुनः।
पिपासुमिव तोयेन सिंचंती वाक्यवारिणा॥8||

इतस्तु किं दुःखतरं यदिमं वारिसंभवम्।
मणिं पश्यामि सौमित्रे वैदेही मागतं विना॥9||

चिरं जीवति वैदेही यदि मासं धरिष्यति।
क्षणं सौम्य न जीवेयं विना ता मसितेक्षणा॥10||

नय मामपि तं देशं यत्र दृष्टा ममप्रिया।
न तिष्ठेयं क्षणमपि प्रवृत्ति मुपलभ्य च॥11||

कथं सा मम सुश्रोणी भीरु भीरुस्सती सदा।
भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम्॥12||

शारदः तिमिरोन्मुक्तो नूनं चंद्र इवांबुदैः।
आवृतं वदनं तस्या न विराजति राक्षसैः॥13||

किमाहा सीता हनुमंस्तत्त्वतः कथ याद्य मे।
एतेन खलु जीविष्ये भेषजे नातुरो यथा॥14||

मधुरा मधुरालापा कि माह मम भामिनी।
मद्विहीना वरारोहा हनुमन् कथयस्व मे॥15||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे षट्षष्टितमस्सर्गः॥

|| Om tat sat ||